________________
(३६८) आभ्यामलः प्रत्ययो गकारश्चान्तो भवति । ऋक् गौ अर्गला परिघः । जनैचि प्रादुर्भाव जङ्गलं निलो देशः ॥४६७॥ कुलिपिलिविशिबिडिमृडिकुणिपीपीभ्यः कित् ॥ ४७६ ॥
एभ्यः किदालः प्रत्ययो भवति । कुल बन्धुसंस्त्यानयोः कुलालः कुम्भकारः । पिलत् क्षेपे पिलालं श्लिष्टम् । विशंत् प्रवेशने विशालं विस्तीर्णम् । बिड आक्रोशे बिडाल: मार्जारः । लत्वे बिलालः स एव । मृणत् हिंसायां मृणालं बिसम् । कुणत् शब्दोपकरणयोः कुणालः कृतमालः कटविशेषश्च । कुणालं नगरं कठिनं च । पीच पाने पियालः वृक्षः, पियालं शाकं वीरुच्च । प्रीच् प्रीतों प्रियालः पियालः ॥ ४७६ ॥ कल्यनिमहिद्रमिजटिभटिकुटिचण्डिशण्डितुण्डिपिण्डिभूकुकिभ्य
इलः ॥ ४८१ ॥ एभ्य इलः प्रत्ययो भवति । कलि शब्द-संख्यानयोः कलिलं गहनं पापम् आत्माधिष्ठितं च शुक्रार्तवम् । अनक प्राणने अनिलः वायुः । मह पूनायां महिला स्त्री । द्रम गतौ द्रमिलाः त्रैराज्यवासिनः । जट झट संघाते जटिलः जटावान् । भट भृतौ भटिलः श्वा सेवकश्च । कुटत् कौटिल्ये कुटिलं वक्रम् । चडुङ् कोपे चण्डिलः श्वा क्रोधनः नापितश्च । शडुङ् रुजायां शण्डिलः ऋषिः । तुडुङ तोडने तुण्डिलः वाग्जाली । पिडुङ संघाते पिण्डिलः मेघः हिंस्रः हिमः गणकश्च । भू सत्तायां भविलः मुनिः समर्थः गृह बहुनेता च । कुकि आदाने कोकिलः परभृतः ॥ ४८१ ॥