SearchBrowseAboutContactDonate
Page Preview
Page 668
Loading...
Download File
Download File
Page Text
________________ ( ३५७) . सर्वधातुभ्यः त्रट प्रत्ययो भवति । छादयतीति छत्रं छत्त्री वा धर्मवारणम् । पातीति पात्रम् ऊर्जितगुणाधारः साध्वादिः । पात्री भाजनम् । स्नायते स्नानं स्नानम् । राजते इति राष्ट्र देशः । शिष्यतेऽनेनेति शास्त्रं गन्थः । असूच क्षेपणे अस्त्रं धनुः ॥४४ ६॥ स्त्री ॥ ४५० ।। स्यतेः सूतेः स्त्यायतेः स्तृणातेर्वा ब्रट् भवति, स च डित् । स्त्री योषित् ॥ ४५० ॥ शामाश्याशक्यम्ब्यमिभ्यो लः ॥ ४६२ ॥ एभ्यो लः प्रत्ययो भवति । शोंच तक्षणे शाला सभा। मांक माने माला स्रक् । श्यङ् गतौ श्यालः पत्नीभ्राता। शक्लंट शक्ती शक्लः मनोज्ञदर्शनः मधुरवाक् शक्तश्च । अबुङ् शब्दे, अम गतौ अम्लः अम्लश्च रसः ॥ ४ ६२ ॥ शुक-शी-मूभ्यः कित् ॥ ४६३ ॥ - एभ्यः कित् लः प्रत्ययो भवति । शुक गतौ शुक्लः सितो वर्णः । शी स्वप्ने शीलं स्वभावः व्रतं धर्मः समाधिश्च । मूङ बन्धने मूलं वृक्षपादावयवः आदिः हेतुश्च ॥ ४६३ ॥ नहि-लङ्गेर्दीर्घश्च ॥ ४६६ ॥ - आभ्याम् अलः प्रत्ययः, अनयोश्च दीर्घो भवति । णहीच बन्धने नाहलः म्लेच्छः । लगु गतौ लागलं हलम् ॥ ४.६६ H.. ऋ-जलेोऽन्तश्च ॥ ४६७ ॥ . . .'
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy