SearchBrowseAboutContactDonate
Page Preview
Page 667
Loading...
Download File
Download File
Page Text
________________ (३५६) शृश् हिंसायां गुणः कोऽन्तश्च शर्करः तरुणः। णूत् स्तवने पोऽन्तश्च नूपुरः तुलाकोटिः । निपूर्वात् तिष्ठतेः निष्ठुरः कर्कशः । निष्ठुरं काहलम् । व्यथेर्विथ् च व्यथतेऽस्माज्जनः इत्यपादानेऽपि विथुरः राक्षसः । मदिवात्योर्गोऽन्तश्च मद्गुरः मत्स्यविशेषः । वागुरा मृगानायः । आदिग्रहणाद् मन्यतेधश्च मधुरः रसविशेषः इत्यादि ॥ ४२६ ॥ मीमसिपशिखटिखडिखर्जिकर्जिसर्जिकृपिवल्लिपण्डिभ्य. ऊरः ॥ ४२७ ॥ एभ्य ऊरः प्रत्ययो भवति । मीच् हिंसायां मयूरः शिखी। मह्यां रौतीति वा मयूरः पृषोदरादिषु सञ्ज्ञाशब्दानामनेकधा व्युत्पत्तिं लक्षयति । मसैच परिमाणे मसूरः अवरधान्यजातिः चर्मासनं च । पशिः सौत्रः पश्यते गम्यते इति पशूरः ग्रामः । खट काझे खटूरः मणिविशेषः । खडण् भेदे खडूरः खुरलीस्थानम्। खर्ज मार्जने च खजूरः वृक्षविशेषः । कर्न व्यथने कर्जूरः स एव मलिनश्च । सर्न अर्जने सर्जूरः अहः । कृपौङ् सामर्थ्य कर्पूरः गन्धद्रव्यम् । वल्लि संवरणे वल्लूरः शुष्कं मांसम् । मडु भूषायां मण्डूरः धातुविशेषः ॥ ४२७ ॥ ___अश्नोतेरीचादेः ॥ ४ ४२ ॥ ___अशौटि व्याप्ती इत्यस्माद् वरट् प्रत्ययः, ईकारश्चादेर्भवति । ईश्वरः विभुः । ईश्वरी स्त्री ॥ ४४२ ॥ ट् ॥ ४४६ ॥
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy