SearchBrowseAboutContactDonate
Page Preview
Page 672
Loading...
Download File
Download File
Page Text
________________ ( ३६१) क्षेम सुख मोक्षपदं च । शिवा हरीतकी । शेवं धनम् । शेवः अनगरः सुखकृच्च । शेवा प्रचला निद्राविशेषः मेदश्च । आप्लंट व्याप्तौ अप्वा देवायुधम् । आप्वा वायुः ॥ उर्दे च ॥ ५०७॥ उर्दि मानक्रीडयोश्चेत्यस्माद् वः प्रत्ययः, धश्चान्तादेशो मवति । ऊर्ध्वः उद्वा । ऊर्ध्वम् उपरि । ऊर्ध्वं परस्तात् ॥९०७॥ लिहेर्जिङ् च ॥ ५१३ ॥ लिहींक आस्वादने इत्यस्माद् वः प्रत्ययः, अस्य च जिह इत्यादेशो भवति । जिहा ॥ ५१३ ॥ मणि-वसेर्णित् ॥ ५१६ ॥ आभ्यां णिद् अवः प्रत्ययो भवति । मण शब्दे माणवः शिष्यः । वसं निवासे वासवः शक्रः ॥ ५१६ ॥ .. मले ५१७ ॥ मलि धारणे इत्यस्मादवः प्रत्ययः, स च णिद् वा भवति । मालवा जनपदः । मलवः दानवः ॥ ५१७ ॥ प्रथेरिवट् पृथ् च ॥ ५२१ ॥ प्रथिष प्रख्याने इत्यस्माद् इवट् प्रत्ययः, अस्य च पृथू इत्यादेशो भवति । पृथिवी भः ॥ ५२१ ॥ पा-दा-वम्यमिभ्यः शः ॥ ५२७ ॥
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy