SearchBrowseAboutContactDonate
Page Preview
Page 664
Loading...
Download File
Download File
Page Text
________________ . ( ३५३) शुभ दीप्तौ शुभ्रः अवदातः । उम्भत् पूरणे उभ्रो मेघः पेलवश्च । दशं दशने दशः दन्तः सर्पश्च । चिंगट चयने चिरम् अशीघ्रम् । पिंग्ट् बन्धने सिरा रुधिरस्रोतोवाहिनी नाडी । वहीं प्रापणे उहः अनड्वान् । विसच् प्रेरणे विनम् आमगन्धि । वसं निवासे उनः रश्मिः । उस्रा गौः । शुच शोके शुक्री ग्रहः मासः शुक्लश्च । शुक्रं रेतः । लत्वे शुक्लः वर्णः, कत्वं तु न्यङक्वादित्वात् । षिधू गत्यां सिध्रः साधुः वृक्षः मांसप्रभेदश्च । गृधूच अभिकाङ्क्षायां गृध्रः श्येनः लुब्धकः कङ्कश्च । जिइन्धैपि दीप्तौ विपूर्वात् वीध्रः अग्निः वायुः नभः निर्मलः पूर्णचन्द्रमण्डलम् । श्चिताङ वणे श्वित्रं श्वेतकुष्ठम् । वृतूङ् वर्तने वृत्रः दानवः बलवान् रिपुश्च । वृत्रं पापम् । णींग प्रापणे नीरं जलम् । शीङ् स्वप्ने शीरः अजगरः । धुंगट अभिषवे सुरः देवः । सुरा मद्यम् । पूडौच प्राणिप्रसवे सूरः आदित्यः रश्मिश्च ॥ ३८८ ॥ ... . इण्-धाग्भ्यां वा ॥ ३८९ ॥ आभ्यां रः प्रत्ययो भवति, स च वा कित् । इंण्क् गतौ इरा मदनीयपानविशेषः मेदीनी च । एरा एडका । डुधांग्क् धारणे च धीरः सत्त्ववान् धृतिमांश्च । धारा जलयष्टिः खड्गावयवः अश्वः गतिविशेषश्च ॥ ३८९ ॥ भन्देर्वा ॥ ३९१ ॥ भदुङ सुखकल्याणयोः इत्यस्माद् रेः प्रत्ययः, नकारस्य च लुग वा भवति । भद्रं भन्द्रं च कल्याणं सुखं च ॥ ३९१ ॥ 23
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy