________________
( ३५२)
ऋज्यजितश्चिवञ्चिरिपिसृपितृपिपिचुपिक्षिपिक्षुपिादिमुदिदिछिदिभिदिखिान्दिदम्भिशुभ्युम्भिदं शिचिसिवहिविसिवसिशुचिसिधिग्रधिवीन्धिश्चितिवृतिनीशीसु
सभ्यः कित् ॥ ३८८ ॥ एभ्यः किद् रः प्रत्ययो भवति । ऋजि गतिस्थानार्जनो. जनेषु ऋनः नायकः इन्द्रः अर्थश्च । अज क्षेपणे च वीरः विक्रान्तः । त-चू क-चू गतौ तक्रम् उदश्चित् । वक्रः कुटिल: अङ्गारकः विष्णुश्च । उभयत्र न्यवादित्वात् कत्वम् । रिपिः सौत्रः रिप्रं कुत्सितम् । सृप्लं गतौ सृप्रः चन्द्रः । सुप्रं मधु । सप्रा नदी । तृपौच प्रीतौ तृपं मेघान्तर्घमः आज्यं काष्ठं पापं दुःखं वा । दपौच हर्षमोहनयोः दृप्रं बलं दुःखं च । दृप्रा बुद्धिः । चुप मन्दायां गतौ चुप्रः वायुः । क्षिपीत प्रेरणे क्षिप्रं शीघ्रम् । क्षुपि सादने सौत्रः शुप्रं तुहिनं कण्टकिगुल्मकश्च । क्षुद्दंपी. संपेषे क्षुद्रम् अणु जलगतश्च । क्षुद्रा मधुकर्यः । क्षुद्रः हिंस्रः । मुदि हर्षे मुद्रा चिह्नकरणम् । रुट्टक अश्रुविमोचने रुद्रः शम्भुः। छिपी द्वैधीकरणे छिद्रं विवरम् । भिपी विदारणे भिद्रम् अदृढम् । भिद्रः शरः । खिदत् परिघाते खिद्रं विघ्नः । खिद्रः विषाणं विषादः चन्दः दीनश्च । उन्दैप् क्लेदने उद्रः ऋषिः मत्स्यश्च । सम्पूर्वात् समुन्दन्ति आर्दीभवन्ति वेलाकाले नद्योऽस्मादिति समुद्रः सागरः भीमादित्वादपादाने । दम्भूट दम्भे दभ्रः अल्पः चन्द्रः कुशः कुशलः सूर्यश्च ।