________________
. (३५१) एभ्यो रः प्रत्ययो भवति । जिभीक् भये भेरः भेदः करभः शरः मण्डूकः दुन्दुभिः कातरश्च । ऋफिडादित्वात् लत्वे भेलः चिकित्साग्रन्थकारः शरः मण्डूकः प्रहीणः अप्राज्ञश्च । वृधून वृद्धौ वर्धः चर्मविकारः चन्द्रः मेघश्च । रुधूपी आवरणे रोधः वृक्षविशेषः । वन गतौ वज्रं कुलिशं रत्नविशेषश्च । अग कुटिलायां गतौ अग्रः प्राग्भागः श्रेष्ठश्च। रमि क्रीडायां रम्रः कामुकः । टुवमू उद्गिरणे वनः धर्मविशेषः धूमश्च । वम्री उपदेहिका । टुवपीं बीजसंताने वप्रः केदारः प्राकारः वास्तुभूमिश्च । जप मानसे च जप्रः ब्राह्मणः मण्डूकश्च । शक्लंट शक्तौ शक्रः इन्द्रः । स्कायै वृद्धौ स्फारम् उल्बणं प्रभूतं च । वदुङ् स्तुत्यभिवादनयोः वन्द्रः बन्दी केतुः कामश्च । वन्द्रं समूहः । इदु परमैश्वर्ये इन्द्रः शक्रः । पदिच् गतौ पद्रं प्रामादिनिवेशः शून्यं च । मदैच् हर्षे मद्राः जनपदः क्षत्रियश्च । मद्रं सुखम् । मदुङ् स्तुत्यभिवादनयोः मन्द्रः मधुरः स्वरः, मन्द्रं गभीरम् । चदु दीप्त्याह्लादयोः चन्द्रः शशीः सुवर्ण च । दसूच उपक्षये दस्रः शिशिरं चन्द्रमाः अश्विनोन्येष्ठश्च । दलौ अश्विनौ । घस्लं अदने घस्रः दिवसः । णसि कौटिल्य नत्रः नासिकापुटः ऋषिश्च । हसे हसने हस्रः दिनं घातुकः हर्षुलश्च । हवं बलाधानं संनिपातश्च । सहस्रं दश शतानि । असूच क्षेपणे अलम् अश्रु । वासिच् शब्दे वास्त्रः पुरुषः शब्दः संघातः शरभः रासभः पक्षी च । वास्त्रा धेनुः । दई भस्मीकरणे दहः अग्निः शिशुः सूर्यश्च । पहि मर्षणे सहः शैलः ।। ३८७॥