SearchBrowseAboutContactDonate
Page Preview
Page 665
Loading...
Download File
Download File
Page Text
________________ (३९४) चिजिशुसिमितम्यम्यर्देर्दीर्घश्च ॥ ३९२ ॥ एभ्यो रः प्रत्ययो दीर्घश्चैषां भवति । चिंगट चयने चीरं जीर्ण वस्त्रं वल्कलं च । जिं अभिभवे जीरः अजाजी अग्निः वायुः अश्वश्च । जीरम् अन्नम् । लत्वे जील: चर्मपुटः । शुं गतौ शुरः विक्रान्तः । पिंगट बन्धने सीरं हलम् । सीरा हलविलेखिता लेखा। हुमिंग्ट प्रक्षेपणे मीरः समुद्रः । मीरं जलम् । मीरा मांस्पचनी देवसीमा च । तमच काङ्क्षायां ताम्रः वर्णः शुल्वं च । अम गतौ आम्रः वृक्षः । अर्द गतियाचनयोः आई सरसम् ॥ ३९२ ॥ अवे च वा ॥ ३९८ ॥ ___ अव रक्षणादावित्यस्माद् · अरः प्रत्ययो धकारश्चान्तादेशो वा भवति । अधरः हीनः उपरिभावस्य प्रतियोगी दन्तच्छदश्च । अवरः परप्रतियोगी ॥ ३९८ ॥ मृधुन्दिपिटिकुरिकुहिभ्यः कित् ॥ ३९९ ॥ एभ्योऽरः प्रत्ययः किद् भवति । मृदश् क्षोदे मृदरः व्याधिः अतिकायः क्षोदश्च । उन्दैप् क्लेदने उदरं जठरं व्याधिश्च । पिठ हिंसासंक्लेशयोः पिठरं भाण्डम् । कुरत् शब्दे कुररः जलपक्षिजातिः । कुहणि विस्मापने कुहरं गम्भीरगतः ॥ ३९९ ॥ वाश्यसिवासिमसिमथ्युन्दिमन्दिचतिचङ्क्यतिकर्बिच किबन्धिभ्य उरः ॥ ४२३ ॥
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy