________________
(३४८) पल फल शल गतौ शल्यम् अन्तर्गतं लोहादि । शक्लंट शक्तौ शक्यमसारम् । ईयिः ईर्ष्यार्थः ईय॑ति ईय॑णं वा ईर्ष्या मात्मर्यम् । षहि मर्षणे सह्यः पश्चादर्णवपार्श्वशैलः ।बन्धंश बन्धने बन्ध्या अप्रसूतिः ॥ ३५७ ॥
नबो हलि-पतेः ॥ ३५८ ॥ नपूर्वाभ्यामाभ्यां यः प्रत्ययो भवति । हल विलेखने अहल्या गोतमपत्नी । पत्ल गतौ अपत्यं पुत्रसन्तानः ॥ ३५८ ॥ ..
स ध् च ।। ३५९॥ षनं सङ्गे इत्यस्माद् यः प्रत्ययः, धकारश्चान्तादेशो भवति । सन्ध्या दिननिशान्तरम् ॥ ३५९ ॥
मृ-शी-पसि-वस्यनिभ्यस्तादिः ।। ३६० ॥
एभ्यर तकारादिः यः प्रत्ययो भवति । मंत् प्राणत्यागे मर्त्यः मनुष्यः । शीफू स्वप्ने शेत्यः शकुनिः संवत्सरः अजगरश्च । पसि निवासे सौत्रो दन्त्यान्तः पस्त्यं गृहम् । वसं निवासे वस्त्यः गुरुः । अनक प्राणने अन्त्यः निरवसितः चण्डालादिश्च ॥३६० ।।
ऋशि-जनि-पुणि-कृतिभ्यः कित् ॥ ३६१ ॥ .. . एभ्यः किन यः प्रत्ययो भवति । ऋश् गतौ स्तुतौ वा स्व. रादिस्तालव्यान्तः ऋश्यः मृगजातिः । जनैचि प्रादुर्भाव जन्यं संग्रामः । जाया पत्नी ये नवा ' इत्यात्त्वम् । पुणत् शुभे पुण्यं सत्कर्म । कृतैत. छेदने कृन्तति कृत्या दुर्गा ॥ ३६१ ॥