SearchBrowseAboutContactDonate
Page Preview
Page 658
Loading...
Download File
Download File
Page Text
________________ (३५७) ध्यै चिन्तायां ध्यामः अव्यक्तवर्णः । रुक् शब्दे रुमा लवणभूमिः । षिवूच् उतौ स्यूमः रश्मिः दीर्घः सूत्रतन्तुश्च । स्यूमं जलम् । शुषंच शोषणे शुष्मं बलं जलं संयोगश्च । मुषश स्तेये मुष्मः मुषिकः । ईष उन्छे ईष्मः वसन्तः बाणः वातश्च । षुहच् शक्तौ सुझाः जनपदः । सुमः राजा। युधिंच संप्रहारे युध्मः शरत्कालः शूरः शत्रुः संग्रामश्च । दसूच उपक्षये दस्मः हीनः वह्निः यज्ञश्च ॥ ३४० ॥ क्षु-हिभ्यां वा ॥ ३४१ ।। आभ्यां मः प्रत्ययः, स च किद् वा भवति । टुक्षुक् शब्दे क्षुमा अतसी । क्षोमं वस्त्रम् । हिंट गतिवृद्धयोः हिमं तुषारः । हेमं सुवर्णम् ॥ ३४१ ॥ स्थाछामासासमन्यनिकनिषसिपलिकलिशलिशकी स्यिसहिबन्धिभ्यो यः॥३५७॥ एभ्यो यः प्रत्ययो भवति । ष्ठां गतिनिवृत्तौ स्थायः स्थानम्। स्थाया भूमिः । दों छोंच छेदने छाया तमः प्रतिरूपं कान्तिश्च । मांक माने माया छद्म दिव्यानुभावदशनं च । षोंच अन्तकर्मणि सायं दिनावसानम् । षूत् प्रेरणे सव्यः वामः दक्षिणश्च । मनिंच् ज्ञाने मन्या धमनिः । अनक् प्राणने अन्यः परः। कनै दीप्त्यादिषु कन्या कुमारी । षसक स्वप्ने सस्यं क्षेत्रस्थं गोधूमादि । पल गतौ पल्यः कटकुसूलः । कलि शब्दसंख्यानयोः कल्यः नीरोगः ।
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy