________________
(३४६) - एभ्यो मः प्रत्ययो भवति । ऋक् गतौ अर्मः अक्षिरोगः ग्रामः स्थलं च । ईरिक् गतिकम्पनयोः ईमैं व्रणः । ष्टुंगा स्तुतौ स्तोमः समूहः यज्ञः स्तोत्रं च । धुंग्ट अभिषवे सोमः चन्द्रः वल्ली च ।हुंक दानादनयोः होमः आहुतिः । सं गतौ सर्मः नदः कालश्च । सम स्थानं सुखं च। ध्रु सेचने धर्मः ग्रीष्मः ।धृत् स्थाने धर्मः उत्तमक्षमादिः न्यायश्च । शृश् हिंसायां शमं सुखम् । क्षित् निवासगत्योः क्षेमं कल्याणम् । यक्षिण पूजायां यक्ष्मः व्याधिः । भांक् दीप्तौ भामः क्रोधः । भामा स्त्री। वां गतिगन्धनयोः वामः प्रतिकूलः सव्यश्च । व्यंग संवरणे व्यामः वक्षोमुजायतिः । डुधांगक धारणे च धामं निलयः तेनश्च । पां पाने पामा कच्छुः । यांक प्रापणे यामः प्रहरः । वलि संवरणे वल्मः ग्रन्थिः । पदिंच गतौ पद्मं कमलम् । णींग प्रापणे नेमः अर्धः समीपश्च ॥ ३३८ ॥
ग्रसि-हाग्भ्यां ग्रा-जिहौ च ॥ ३३९ ॥
आभ्यां मः प्रत्ययः, अनयोश्च ग्राजिही आदेशौ यथासंख्यं भवतः । ग्राम: समूहादिः । निमः कुटिलश्च ॥ ३३९ ॥ विलिभिलिसिधीन्धिधमशाध्यारुसिविशुषिमुषीषिमुहियुधि
दसिभ्यः कित् ॥ ३४० ॥ एभ्यः किद् मः प्रत्ययो भवति । विलत् वरणे विल्मं प्रकाशः । भिलिः सौत्रः भिल्भं भास्वरम् । षिधू गत्यां सिध्मं रिक्षम् । श्यैङ् गतौ श्यामः वर्णः । श्यामं नमः । श्यामा रात्रिः औषधिश्च ।