________________
( ३४५) कृशृगृशलिकलिकडिगर्दिरासिरमिवडिवल्लेरभः ॥ ३२९ ॥
एभ्योऽभः प्रत्ययो भवति । कृत् विक्षेपे करभः त्रिवर्षः उष्ट्रः । शश् हिंसायां शरभः श्वापदविशेषः । गत् निगरणे गरभः उदरस्थो जन्तुः । पल फल शल गतौ शलभः पतङ्गः। कलि शब्दसंख्यानयोः कलभ यौवनाभिमुखो हस्ती। कडत् मदे कडभः हस्तिपोतकः । गर्द शब्दे गर्दभः खरः । रासृङ् शब्दे रासभः खरः । रमिं क्रीडायां रमभः प्रहर्षः । वड: सौत्रो धातुः वडभी वेश्माग्रभूमिका, लत्वे च वलभी। वल्लि संवरणे वल्लभः स्वामी दयितश्च ॥ ३२९ ॥
ऋषि-वृषि-लुसिभ्यः कित् ॥ ३३१ ॥ एभ्यः किदभः प्रत्ययो भवति । ऋषैत् गतौ, वू सेचने ऋषभः, वृपभश्च पुङ्गवः भगवांश्चादितीर्थङ्करः । ऋषभः वायुः । लुसिः सौत्रः लुसभः हिंस्रः मत्तहस्ती वनं च ॥ ३३१ ॥
सि-टिफिभ्या मभः सैर-टिटौ च ॥ ३३२ ॥ . आभ्यामिभः प्रत्ययो भवति, दन्त्यादिः सैरः टिदृश्चादेशी यथासंख्यं भवतः । पिंगट बन्धने सैरिभः महिषः । टिकि गतौ टिट्टिभः पक्षी ॥ ३३२ ॥ अर्तीहि मुहुरक्षियक्षिभावाव्याधापायावलिपदिनी
भ्या मः ॥ ३३८ ॥