SearchBrowseAboutContactDonate
Page Preview
Page 655
Loading...
Download File
Download File
Page Text
________________ ( ३४४) एभ्योऽम्बः प्रत्ययो भवति । डुकंग करणे करम्बः दध्योदनः दधिसक्तवः पुष्पं च । कडत् मदे कडम्बः जातिविशेषः जनपदश्च । कटे वर्षावरणयोः कटम्बः पक्वान्नविशेषः वादित्रं च । कडम्बकटम्बौ वृक्षौ च । वट वेष्टने वटम्बः शैलः तृणपुञ्जश्च ॥३२१॥ डीनीवन्धिशृधिलिभ्यो डिम्बः ।। ३२५ ॥ एभ्यो डिदिम्बः प्रत्ययो भवति । डीङ् विहायसा गतौ डिम्बः राजोपद्रवः । णींग प्रापणे निम्बः वृक्षविशेषः । बन्धंश बन्धने विम्बं प्रतिच्छन्दः देहश्च । बिम्बी वलिजातिः । शधूड़ शब्दकुत्सायां शिम्बः मृगजातिः, शिम्बी निष्पाववल्ली च । चल, कम्पने चिम्बा यवागूजातिः ॥ ३२५ ॥ गदरमिहनिजन्यतिदलिभ्यो भः ॥ ३२७॥ एभ्यो भः प्रत्ययो भवति । गत् निगरणे गर्भः जठरस्थः प्राणी । दृश् विदारणे दर्भः कुशः। रमिं क्रीडायां रम्भा अप्सराः कदली च । हनं हिंसागत्योः हम्भा गोधेनुनादः । जनैचि प्रादुर्भावे जम्भः दानवः दन्तश्च । जम्मा मुखविदारणम् । क्रंक गतौ अर्भः शिशुः । दल विदारणे दल्भः ऋषिः वल्कलं विदारणं च ॥ ३२७ ॥ इणः चित् ॥ ३२८ ॥ इंणक गतौ इत्यस्मात् विद् भ; प्रत्ययो भवति । इभः हस्ती ॥ ३२८ ॥
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy