________________
( ३४३ )
आभ्यां फः प्रत्ययो भवति । रींच स्त्रवणे रेफः कुत्सितः । शीक स्वप्ने शेफः मेढूः ॥ ३१४ ॥
- कलि- गलेरस्योच्च ॥ ३१९ ॥
आभ्यां फः प्रत्ययः, अकारस्य चोकारो भवति । कलि शब्दसंख्यानयोः, गल अदने कुल्फः, गुल्फः जङ्घाङ्घ्रिसन्धिः । गुल्फः पदोपरिग्रन्थिः ॥ ३९५ ॥ शफ - कफ - शिफा - शोफादयः
॥ २१६ ॥
शफादयः शब्दाः फप्रत्ययान्ता निपात्यन्ते । श्यतेः कायतेश्च ह्रस्वश्च । शफः खुरः प्रियंवदश्च । कफः श्यतेरित्वमोत्वं च शिफा वृक्षजटा । शोफ श्वयथुः आदिशब्दाद् रिफा- नफा-सुनफादयः ॥ ३१६ ॥
4
श्लेष्मा । खुरश्च ।
शम्य मेर्णिद् वा ।। ३१८ ॥
आभ्यां वः प्रत्ययः, स च णिद् वा । शमूच् उपशमे शम्बः वज्रः कर्षणविशेषः वेणुदण्डः तोत्रम् अस्त्रिं च । शम्ब - शाम्बौ जाम्बवतेयौ | अम्बा माता । आम्त्रः अपह्नवः ॥ ३१८ ॥ शल्यलेरुच्चातः ।। ३१९ ।
आभ्यां बः प्रत्ययः, अकारस्य चोकारो भवति । पल फल शल गतौ शुल्वं ताम्रम् | अली भूषणादौ उल्वं रजतं गर्भवेष्टनम् । शुल्वं बभ्रुः तरक्षुश्च ॥ ३१९ ॥
कृ- कडि - कटि - वटेरम्बः ॥ ३२१ ॥