SearchBrowseAboutContactDonate
Page Preview
Page 653
Loading...
Download File
Download File
Page Text
________________ ( ३४२) . विष्टपादयः शब्दाः फिदपप्रत्ययान्ता निपात्यन्ते । विषेस्तोऽन्तश्च । विष्टपं जगत् सुकृतिनां स्थानं च । वलेरुल च उलपं पर्वततृणं पङ्कनं जलं च । उलपः ऋषिः । वातेस्तोऽन्तश्च वातपः ऋषिः । आदिग्रहणात् खरपादयो भवन्ति ॥ ३०७ ॥ कलेरापः ॥ ३०८॥ कलि शब्दसंख्यानयोः इत्यस्माद आपः प्रत्ययो भवति । कलापः काञ्ची समूहः शिखण्डश्च ॥ ३०८ ॥ दलेरी दिल् च ।। ३१०॥ दल विशरणे इत्यस्मादीपः प्रत्ययो भवति, दिल् चास्यादेशः । दिलीपः राजा ॥ ३१० ॥ ___ उडेरुपक् ॥ ३११ ॥ उड् संघाते इत्यस्मात् सौत्रादुष्क प्रत्ययो भवति । उडुपः प्लवः । जपादित्व द् वत्वं उड्डुवः ॥ ३११ ॥ ____अश ऊपः पश्च ॥ ३१२ ॥ अशौटि व्याप्तौ इत्यस्माद् ऊपः प्रत्ययः, पश्चान्तादेशो भवति । अपूपः पक्वान्नविशेषः ॥ ३१२ ॥ सर्तेः षपः । ३१३ ॥ सं गतौ इत्यस्मात् षपः प्रत्ययो भवति । सर्षपः रक्षोघ्नं द्रव्यं शाकं च ॥ ३१३ ॥ री-शंभ्यां फः ॥ ३१४ ॥
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy