SearchBrowseAboutContactDonate
Page Preview
Page 650
Loading...
Download File
Download File
Page Text
________________ ( ३३९) व्यम् । मदुङ् स्तुत्यादौ मन्दनं स्तोत्रम् । मडु भूषायां मण्डनम् अलंकारः । मदैच् हर्षे मदनः वृक्षः कामः मधूच्छिष्टं च । दह भस्मीकरणे दहनः अग्निः । वहीं प्रापणे वहनं नौः । आदिग्रह णात् पचेः पचनः अग्निः । पुनातेः पवनो वायुः । बिभर्तेः भरणं साधनम् । नयतेः नयनं नेत्रम् । धुतेः द्योतनः आदित्यः । रचेः रचना वैचित्र्यम् । शृङ्खः गृञ्जनम् अभक्ष्यद्रव्यविशेषः । प्रस्कन्दनः । प्रपतनः इत्यादयो भवन्ति ॥ २६९ ॥ पठेर्णित् ।। २८७ ॥ पठ व्यक्तायां वाचीत्यस्माद् णिद् ईनः भवति । पाठीनः मत्स्यः ॥ २८७ ॥ पिशि-मिथि-क्षुधिभ्यः कित् ॥ २९० ।। एभ्यः किदुनः प्रत्ययो भवति । पिशत् अवयवे पिशुना खलः । पिशुनं मैत्रीभेदकं वचनम् । मिथुङ् भेधाहिंसयोः मिथुन स्त्रीपुंसद्धन्द्वम् राशिश्च । क्षुधंच बुमुक्षायां क्षुधुनः कीटकः ॥२९॥ फलेोऽन्तश्च ।। २९१ ॥ .. फल निष्पत्तौ इत्यस्मादुनः प्रत्ययः, गश्चान्तो भवति । फल्गुनः अर्जुनः । फल्गुनी नक्षत्रम् ॥ २९१ ॥ वी-पति-परिभ्यः तनः ॥ २९२ ॥ एभ्यः तनः प्रत्ययो भवति । वीक प्रजनादौ वेतनं भृतिः । पत्ल गतौ पत्तनम् । पट गतौ पट्टनं द्वावपि नगरविशेषौ ।। १९२१
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy