SearchBrowseAboutContactDonate
Page Preview
Page 638
Loading...
Download File
Download File
Page Text
________________ (३२७) मर्कटः कपिः क्षुद्रजन्तुश्च । कक्ख हसने कक्खटः कर्कशः । तू प्लवनतरणयोः तरटः पीनः । डुकंग करणे करटः काकः करिकपोलश्च । सं गतौ सरटः कृकलासः । टुडुभंगा पोषणे च भरटः भृत्यः कुलालः प्लवविशेषश्च । वृकुटु वरणे वरटः क्षुद्रधान्यं प्रहारश्च ॥ १४२ ॥ कपट-कीकटादयः ॥ १४४ ॥ कपटादयः शब्दा अटप्रत्ययान्ता निपात्यन्ते । कम्पेनलोपश्च कपटं माया । ककेरत ईच्च कीकटः कृपणः । आदिशब्दात् लघटः, पर्पटः इत्यादयः ॥ १४४ ॥ तृ-कृ-कृपि-कम्पि-कृषिभ्यः कीटः॥ १५१ ॥ एभ्यो धातुभ्यः किदीटः प्रत्ययो भवति । तृ प्लवनतरणयोः तिरीटं कूलवृक्षः मुकुटं वेष्टनं च । कृत् विक्षेपे किरीटं मुकुट हिरण्यं च । कृपौङ् सामर्थ्य कृपीटं हिरण्यं जलं च । कपुङ् चलने कम्पीटं कम्पः कम्प्रं च । कृषीत् विलेखने कृषीटं जलम् ॥१५१॥ बन्धेः ॥ १५७ ॥ बन्धश बन्धने इत्यस्मात् किदूट: प्रत्ययो भवति । वधूटी प्रथमवयाः स्त्री ॥ १५७ ॥ कृ-शक्-शाखेरोटः ॥ १६० ॥ एभगो धातुभ्य ओटः प्रत्ययो भवति । डुइंग करणे करोट:
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy