SearchBrowseAboutContactDonate
Page Preview
Page 639
Loading...
Download File
Download File
Page Text
________________ (३२८) भृत्यः शिरः कपालं च । करोटं भाजनविशेषः । शक्लंट् शक्ती भकोटः बाहुः । शाख श्लाखु व्याप्तौ शाखोटः वृक्षविशेषः ॥१६॥ वनि-कणि-काश्युषिभ्यष्ठः ॥ १६२ ॥ एभ्यो धातुभ्यः ठः प्रत्ययो भवति । वन भक्तौ वण्ठः अनिविष्टः । कण शब्दे कण्ठः कन्धरा। काश दीप्तौ काष्ठं दारु । काष्ठा दिक् अवस्था च । उधू दाहे ओष्ठः दन्तच्छदः ॥१६२॥ पो-विशि-कुणि-पृषिभ्यः कित् ॥ १६३ ॥ एभ्यः कित् ठः प्रत्ययो भवति । पीच् पाने पीठम् आसनम् । विशंत् प्रवेशने विष्ठा पुरीषम् । कुणत् शब्दोपकरणयोः कुण्ठः अतीक्ष्णः। पृषू सेचने पृष्ठः अङ्कुशः शरीरकैदेशश्च ॥१६३।। कुषेर्वा ॥ १६४ ॥ ___कुष्श् निष्कर्षे इत्यस्मात् ठः प्रत्ययो भवति, सच किद्धा कुष्ठं व्याधिः गन्धद्रव्यं च । कोष्ठः कुशूलः उदरं च ॥ १६४ ॥ शमेलक् च वा ॥ १६५ ॥ शमूच उपशमे इत्यस्मात् ठः प्रत्ययो भवति, अन्त्यस्य च वा लुक् । शठः धूर्तः । शण्ठः धूर्तः नपुंसकं च ॥ १६५ ॥ मृजशकम्यमिरमिरपिभ्योऽठः ॥ १६७ ॥ एभ्यो धातुभ्यः अठः प्रत्ययो भवति । मृत् प्राणत्यागे मरठः अतिद्रवीभूतं दधि कृमिजातिः कण्ठः प्राणश्च । जष्च
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy