________________
( ३२६) भिषेर्भिप-भिष्णौ च वा ॥ १३१ ॥ भिषेरजः प्रत्ययो भिषभिष्णौ चादेशौ वा भवतः । भिषिः सौत्रो धातुः भिषजः, भिष्णनः वैद्यः । भेषजमौषधम् ॥१३१॥
मुर्वेमुर च ॥ १३२ ॥ मुवै बन्धने इत्यस्मादनः प्रत्ययः, अस्य च मुरित्यादेशश्च भवति मुरजः मृदङ्गः ॥ १३२ ॥
उटजादयः ॥ १३४॥ उटनादयः शब्दा अजप्रत्ययान्ता निपात्यन्ते । वटेर्वस्योत्त्वं च उटनं मुनिफुटीरः । आदिशब्दाद् भूनः भरुज इत्यादयोऽपि ॥ १३४ ॥ दिव्यविश्रुकुकविंशकिकङ्किकृपिचपिचमिकम्येधिकर्किमर्कि
कक्खितकसभवभ्योऽटः ॥ १४२ ॥ एभ्यो धातुभ्योऽटः प्रत्ययो भवति । दिबूच् क्रीडादौ देवटः देवकुलविशेषः शिल्पी च । अव रक्षणादौ अवटः प्रपातः कूपश्च । श्रृंट श्रवणे श्रवटः छत्त्रम् । कुंक् शब्दे कवटः उच्छिष्टम् । कर्व गतौ कर्बट क्षुद्रपत्तनम् । शक्लंट शक्तौ शकटम् अनः । ककुङ् गतौ कङ्कटः सन्नाहः । कङ्कटं सीमा । कृपौङ सामर्थ्य कर्पटें वासः । चप सान्त्वने चपटः रसः । चमू अदने चमटः घस्मरः । क्मङ कान्तौ कमटः वामनः । एधि वृद्धौ एघटः वल्मीकः । कर्कि- सौत्रौ धातू कर्कटः कपिलः कुलीरश्च । कर्कटी त्रपुसी।