________________
(१२५) चादेशौ भवतः । मतङ्गः ऋषिः हस्ती च । मातङ्गः हस्ती अन्त्यजातिश्च ॥ १०० ॥
पिशेराचक् ॥ ११६ ॥ पिशत् अवयवे इत्यस्मादाचक् प्रत्ययो भवति । पिशाच व्यन्तरजातिः ॥ ११६ ॥
म्रियतेरीचण ॥ ११८ ॥ मृत् प्राणत्यागे इत्यस्मादीचण प्रत्ययो भवति । मारीचः रावणमातुलः ॥ ११८ ॥ .. तुदिमदिपद्यदिगुगमिकचिभ्यश्छक् ॥ १२४ ॥ .
एभ्यः छक् प्रत्ययो भवति । तुदीत् व्यथने तुच्छः स्तोकः । मदैच् हर्षे मच्छः मत्स्यः प्रमत्तपुरुषश्च । मच्छा स्त्री। पदिच गतौ पच्छ: शिला । अदक् भक्षणे अच्छः निर्मलः । गुंङ् शब्दे गुच्छः स्तबकः । गम्लं गतौ गच्छः क्षुद्रवृक्षः । कचि बन्धने कच्छः कूर्मपादः कुक्षिः नद्यवकुटारश्च । कच्छा जनपदः ॥१२॥
पी-पूडो इस्वश्च ॥ १२५ ॥ आभ्यां छक् प्रत्ययो हस्वश्च भवति । पीच् पाने पिच्छं शकुनिपत्रम् । पिच्छः गुणविशेषः, यद्वान् पिच्छिल उच्यते । पूज पवने पुच्छं वालधिः ॥१२॥
. वियो जक्॥ १२७॥ वींक प्रजनकान्त्यसनखादनेषु च इत्यस्माद् धातोः जा प्रत्ययो भवति । बीजम् उत्पत्तिहेतुः ॥ १२७ ॥