________________
(३२४) ककेलुः । अमण रोगे आम्रातकः वृक्षः । नम्पूर्वात् म्लैधातोः मिलादेशे अमिलातकं वर्णपुष्पम् । पिषेः पिष्टातकं वर्णचूर्णम् ॥ ८॥ गम्पमिरम्यजिगद्यदिछागडिखडिगृभ्वस्वृभ्यो गः ॥ २२ ॥
एभ्यो गः प्रत्ययो भवति । गम्लं गतौ गङ्गा देवनदी । अम् गतौ अङ्गम् शरीरावयवः । अङ्गः समुद्रः वह्निः राजा च । अङ्गा जनपदः । रमि क्रीडायां रङ्गः नाट्यस्थानम् । अन क्षेपणे च वेगः त्वरा रेतश्च । गद व्यक्तायां वाचि गद्गः वाग्विकलः । अदंक भक्षणे अद्ः समुद्रः अग्निः पुरोडाशश्च । छोंच छेदने छागः बस्तः । गड सेचने गड्गः मृगजातिः । खडण् भेदे खड्गः मृगविशेषः असिश्च । गत् निगरणे गर्गः ऋषिः । टुडुभंग्क् पोषणे च भर्गः रुद्रः सूर्यश्च । वृकुट वरणे वर्गः संघातः । औस्वृ शब्दोपतापयोः स्वर्गः नाकः ॥ ९२ ॥
पति-तमि-तृ-पृ-कृ-श-वादेरणः ॥ ९ ॥ - एभ्योऽङ्गः प्रत्ययो भवति । पत्ल गतौ पतङ्गः पक्षी शलभः सूर्यः शालिविशेषश्च । तमूच काङ्क्षायां तमङ्गः हर्म्यनियूहः । तृ प्लवनतरणयोः तरङ्गः ऊर्मिः । पृश् पालनपूरणयोः परङ्गः खगः वेगश्च । कुत् विक्षेपे करङ्गः कर्मशीलः । शुश् हिंसायाम् शरङ्गः पक्षिविशेषः । लूगश् छेदने लवङ्गः सुगन्धिवृक्षः ॥९८ ॥
मनेर्मत्-मातौ च ॥ १०॥ मनिच् ज्ञाने इत्यस्माद् धातोः अङ्गः प्रत्ययो भवति, मत्माती