________________
(३२३) .: एते उप्रत्ययान्ता निपात्यन्ते । शमूच् उपशमे शम्बूक, शाम्बूकः शङ्खः । वृश् वरणे वृधूक: मातृवाहकः । वृधूकं जलम् । मदेः मधूकः वृक्षः । अलेः उलूकः काकारिः । उरुपूर्वाद् वाते: उस्बूकः एरण्डः । वृधेः वरूकः तृणजातिः ॥ ६१ ॥
___ जीवेरातृको जैव च ॥ ६७ ॥ . जीव प्राणधारणे इत्यस्मादातृकः प्रत्ययो भवति, जैव् इत्यादेशश्च । नैवातृकः आयुष्मान् चन्द्रः आम्रः वैद्यः मेघश्च । जैवातृका जीवद्वत्सा स्त्री ॥ ६७ ॥
कृनि-पुति-लति-भिदिभ्यः कित् ॥ ७६ ॥ - एभ्यः कित् तिकः प्रत्ययो भवति । कृतैत् छेदने कृत्तिका नक्षत्रम् । पुतिलती सौत्रौ पुत्तिका मधुमक्षिका । लत्तिका वाद्यविशेषः गौः गोधा च । गोपूर्वाद् गोलत्तिका गृहगोलिका। अवपूर्वाद् अवलत्तिका गोधा । आलत्तिका गानप्रारम्भः । भिदंपी विदारणे भित्तिका कुड्यम् माषादिचूर्ण शरावती नदी च ।। ७६ ॥
चण्डि-भल्लिभ्यामातकः ॥ ८२ ॥ आभ्यामातकः प्रत्ययो भवति । चडुङ् कोपे चण्डातकं नर्तक्यादिवासः । भल्लि परिभाषणहिंसादानेषु भल्लातकः वृक्षः ॥८२॥ श्लेष्मातकाम्रातकामिलातकपिष्टातकादयः ॥ ८३ ॥ एते आतकप्रत्ययान्ता निपात्यन्ते । श्लिषेः श्लेष्मातकः