________________
(३२१) मृणीकास्तीकप्रतीकपूतोकसमीकवाहीकवालीकवल्मीककल्मलीकतिन्तिडीककङ्कणीककिङ्किणीकपुण्डरीकचञ्चरीक
फर्फरीकझझरीकघर्घरीकादयः ॥ ५० ॥ .. - एते किदीकप्रत्ययान्ता निपात्यन्ते। सृ गतौ सृणीकः वायुः
अग्निः अशनिः उन्मत्तश्च । सृणीका लाला । असूक् मुवि अस्तीकः जरत्कारुसुतः । प्रांक पूरणे प्राति शरीरमिति प्रतीकः वायुः अवयवः सुखं च । सुप्रतीकः दिग्गजः । पूङ पवने पूतीक तृणजातिः । इण् गतौ संयन्ति अस्मिन्निति समीकं संग्रामः। वहीं प्रापणे, वह्ल गतौ वाहीकः वाह्लीकः एतौ देशौ । वल संवरणे वल्मीकः नाकुः । कल संख्याने कल्मलीकं ज्वाला । तिमः तिन्तिडीक: पक्षी वृक्षाम्लश्च । चसण्यतेः कङ्कण् च कङ्कणीकः घण्टानालम् । किमः परात् कणतेः किङ्किणीका घण्टिका । पुणेः पुण्डरीकं पद्मं छत्रं व्याघ्रश्च । चञ्चेः चश्चरीकः भ्रमरः । पिपतेर्द्वित्वं गुणः पकारयोः फत्वं रश्च पूर्वस्यान्तः फर्फरीकं पल्लवं पादुका मर्दलिका च । झीर्यते: द्वित्वं तृतीयाभावः पूर्वस्य रश्चान्तः झझरीकः देहः । झर्झरीका वादिनभाण्डम् । घरतेः घर्घरीका घण्टिका ॥ ५० ॥ कञ्चुकांशुकनंशुकपाकुकहिबुकचिबुकजम्बुकचुलुकचूचुको
ल्मुकभावुकपृथुकमधुकादयः॥ ५७॥ एते किदुकप्रत्ययान्ता निपात्यन्ते । कचि बन्धने, अशौटि
21