________________
(३२०) '.आङः पणि-पनि-पदि-पतिभ्यः ॥ ३९ ॥
आङ्ग्रेभ्य एभ्य इकः प्रत्ययो भवति। पणि व्यवहारस्तुत्योः आपणिकः पत्तनवाप्ती व्यवहारज्ञो वा । पनि स्तुतौ आपनिकः स्तावकः इन्दनीलः इन्द्रकीलो वा । पदिंच गतौ आपदिकः इन्द्रनीलः इन्द्रकीलो वा । पत्ल गतौ आपतिकः पथि वर्तमानः मयूरः श्येनः कालो वा ॥ ३९ ॥
. नसि-वसि-कीसभ्यो णित् ॥ ४० ॥
एभ्यो णिद् इकः प्रत्ययो भवति । णसि कौटिल्ये नासिका घ्राणम् । वसं निवासे वासिका माल्यदामविशेषः । कस गतौ कासिका वनस्पतिः ॥ ४० ॥
पालिकृषिक्रुशिवश्चिभ्यः कित् ॥ ४१॥ एभ्यः किद् इकः प्रत्ययो भवति । पा पाने पिकः कोकिलः । पुल महत्त्वे पुलिकः मणिः । कृषीत् विलेखने कृषिक: पामरः । क्रुशं आहानरोदनयोः क्रुशिकः क्रोष्टुकः उलूकश्च । ओबश्वौत् छेदने वृश्चिकः सविषः कीट: राशिश्च नक्षत्रपादनवकरूपः ।
. प्राङः पणि-पनि-कषिभ्यः ॥ ४२ ॥ • प्राङ् एतस्मादुपसर्गसमुदायात् परेभ्य एभ्यः किदिकः प्रत्ययो भवति । पणि व्यवहारस्तुत्योः प्रापणिकः वणिक् । पनि स्तुतौ प्रापनिकः पथिकः । कष हिंसायां प्राकषिकः वायुः खलः नर्तकः मालाकारश्च ॥ ४२ ॥