________________
(३१९) तडाकं सरः । गड सेचने गडाकः शाकजातिः । भदुङ् सुखकल्याणयोः भन्दाकं शासनम् । वदुङ् स्तुत्यभिवादनयोः वन्दाकः चीवरभिक्षुः । मदुङ् स्तुत्यादिषु मन्दाका औषधी । णमं प्रहुत्वे नमाका म्लेच्छजातिः । कुंङ् शब्दे कवाकः पक्षी । टुदुंट उपतापे दवाक: म्लेच्छः । पूङ् पवने पवाका वात्या । मनिच् ज्ञाने मनाका हस्तिनी । खज मन्थे खजाकः आकरः मन्थाः दर्विः आकाशं. बन्धकी शरीरं पक्षी च ॥ ३४ ॥ मवाक-श्यामाक-वार्ताक-वृन्ताक-ज्योन्ताक-गूवाक
भद्राकादयः ॥ ३७॥ एते आकप्रत्ययान्ता निपात्यन्ते । मव्य बन्धने मवाक: रेणुः । श्यैङ् गतौ श्यामाकः जघन्यो व्रीहिः । वृतूङ वर्तने वार्ताकी शाकविशेषः तत्फलं वार्ताकम् । स्वरान्नोन्तश्च वृन्ताकी उच्चवृहती तत्फलं वृन्ताकम् । ज्युङ् गतौ स्विद्यमानो ज्यवतेऽस्मिन्निति न्योन्ताकम् स्वेदसद्मविशेषः । गुंत् पुरीपोत्सर्गे, गुङ् शब्दे वा गूवाकं पूगफलम् । भदुङ सुखे कल्याणे च भद्राकः अकुटिलः॥३७॥
क्रीकल्यलिदलिस्फटिदूषिभ्य इकः ॥ ३८ ॥
एभ्य इकः प्रत्ययो मवति । डुकींग द्रव्यविनिमये क्रयिक: क्रेता । कलि शब्द-संख्यानयोः कलिका कोरकः । उत्कलिका ऊर्मिः । अली भूषणादौ अलिकं ललाटम् । दल विशरणे दलिक दारु । स्फट स्फुट्ट विशरणे स्फटिकः मणिः। दुषंच वैकृत्ये दूषिका नेत्रमलः ॥ ३८॥