________________
(३१८) बन्धने कीचकः वंशविशेषः । पचींष् पाके पेचकः करिजघनभागः । मचि कल्कने मेचकः वर्णः । मनिंच ज्ञाने मेनका अप्सराः । ऋ गतौ अर्भकः बालः । ध्मां शब्दाग्निसंयोगयोः धमकः कीटः करिश्च । हनक हिंसायां वधकः हन्ता व्याधिश्च ।वधकं पद्मबीजम् । वृत्रवधः शक्रः । लघुङ् गतौ लघकः असमीक्ष्यकारी। जहकः निर्मोचकः कालः क्षुद्रश्च । ईरिक् गति-कम्पनयोः एरका उदकतृणजातिः । ईडिक् स्तुतौ एडका अविजातिः । अशौटि व्याप्ती अश्मका जनपदः । रमिं क्रीडायां लमकः ऋषिविशेषः । क्षुद्रूपी संपेषे । क्षुल्लकं भ्रम् । क्षुधं लातीति क्षुल्लः, क्षुल्ल एवं क्षुल्लकः । वट वेष्टने वट्वका तृणपुञ्जः । आङपूर्वाद् ढोकतेः आढकं मानम् । आदिग्रहणात् कला आपिबन्तीति कलापकाः शास्त्राणि । कथयतीति कथकः तोटकानामाख्यायिकादीनां च वर्णयिता ॥ ३३ ॥ शलिबलिपतिवृतिनभिपटितटितडिगडिभन्दिवन्दिमन्दिनमिकु
दुपूमनिखजिभ्य आकः ॥ ३४ ॥ एभ्यो धातुभ्य आकः प्रत्ययो भवति । पल फल शल गतो, शलि चलने वा शलाका एषणी पूरणरेखा द्यूतोपकरणं सूची च । बल प्राणनधान्यावरोधयोः बलाका जलचरी शकुनिः । पत्ल गतौ पताका वैजयन्ती । वृतूङ् वर्तने वर्ताका शकुनिनातिः । णभच् हिंसायां नभाकः चक्रवाकजातिः तमः काकश्च । पट गतौ पटाका वैजयन्ती पक्षिजातिश्च । तट उच्छाये तटाकं सरः । तडणू आघाते