SearchBrowseAboutContactDonate
Page Preview
Page 628
Loading...
Download File
Download File
Page Text
________________ (३१७) दृकृनसशधमृस्तुकुक्षुलविचरिचटिकटिकण्टिचणिचषिफ--- लिवमितम्यविदेविबन्धिकनिजनिमशिक्षारिकूरितिवल्लि मल्लिसल्लयलिभ्योऽकः ॥ २७ ॥ एभ्यो धातुभ्य अकः प्रत्ययो भवति । णाति दरकः भीरुः। करकः जलभाजनम् कमण्डलुश्च । करका वर्षपाषाणः । नरकः निरयः । सरकः मद्यविशेषः । सरका मधुपानवारः । भरकः गौण्यादिः । धरकः सुवर्णोन्माननियुक्तः । वरकः वधूनातिसहायः वृक्षजातिविशेषश्च । मरकः जनोपद्रवः । स्तबकः पुष्पगुच्छः । कवकम् अभक्ष्यद्रव्यविशेषः । क्षवकः राजसर्षपः । लङ्घकः रङ्गोपजीवी । चरकः मुनिः । चटकः पक्षी । कटकः वलयः । कण्टकः तरुरोम । चणकः मुनिः धान्यविशेषश्च । चषकः पानभाजनम् । फलकः खेटकम् । वमकः कर्मकरः। तमक; व्याधिः क्रोधश्च । अवका शैवलम् । देवका अप्सराः । देविका नदी । बन्धकः चारकपालः । कमकं सुवर्णम् । जनकः सीतापिता । मशकः क्षुद्रजन्तुः । क्षारकं बालमुकुलम् । कोरकं प्रौढमुकुलम् । वर्तका वर्तिका वा शकुनिः । वल्लकी वीणा । मल्लकः शरावः । मल्लिका पुष्पजातिः दीपाधारश्च । सल्लः सौत्रो धातुः सल्लकी वृक्षः । अलकः केशविन्यासः । अलका पुरी ॥ २७ ॥ कीचकपेचकमेनकाकधमकवधकलघकजहरकैडकाश्मक-. लमकक्षुल्लकवट्वकाढकादयः ॥ ३३॥ कीचकादयः शब्दा अप्रत्ययान्ता निपात्यन्ते । कवि
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy