________________
(३१६ )
अनेन जानु उरुजङ्घासन्धिमण्डलम् । रहति गृहीत्वा सूर्याचन्द्रमसौ स्वशरीरं वा राहुः सैंहिकेयः । एतीत्यायुः पुरुषः शकटम् औषधं जीवनं पुरूरवः पुत्रो वा । एवं जरायुः गर्भवेष्टनम् । जटायुः पक्षी । धनायुः देशः । रसायुः भ्रमरः ॥ १ ॥
अः ॥ २ ॥
सर्वधातुभ्यो यथायोगमकारः प्रत्ययो भवति । भवः । तरः ।
वरः । शयः । स्तवः । प्लवः । परः । करः । चरः । वदुः इत्यादि ॥ २ ॥
नमः क्रमिगमिश मिखन्याकमिभ्यो डित ॥
३ ॥ नञः परेभ्य एभ्यः अः प्रत्ययो भवति, स च डिट् । न क्रामति नकः जलचरो ग्राहः । न गच्छति नगः पर्वतः वृक्षश्च । न शाम्यति नशः यक्षः पिशाचो वा । न खनति नखः करजः । नात्राकमस्तीति नाकः स्वर्गः ॥ ३ ॥
कुगो द्वे च ॥ ७ ॥
करोतेः दिप्रत्ययो भवति, धातोश्च द्वित्वम् । करोतीति चक्रं रथाङ्गमायुधं च ॥ ७ ॥
पुं-पलिभ्यां टित् पिप् च पूर्वस्य ॥ ११ ॥
आभ्यामः प्रत्ययो भवति स च टिदू, अनयोश्च सरूपे द्वेरूपे पूर्वस्थाने पिपादेशश्च भवति । पृणाति च्छायया पिप्परी वृक्षजातिः । पलति आतुरं पिप्पली औषधजातिः ॥ ११ ॥