SearchBrowseAboutContactDonate
Page Preview
Page 625
Loading...
Download File
Download File
Page Text
________________ ( ३१४) तयोरादिरिड् वा भवति । मिन्नमनेन, मेदितं वा। प्रमिन्नः, प्रमेदितः । प्रमिन्नवान् , प्रमेदितवान् । शकः कर्मणि । ४ । ४ । ७३ । शकेः कर्मणि क्तयोरादिरिड् वा भवति । शक्तः, शकितो वा षटः कर्तुं चैत्रेण । णो दान्तशान्तपूर्णदस्तस्पष्टच्छन्नज्ञप्तम् । ४ । ४।७४। दमादीनां धातूनां णौ सति क्ते परे एतानि निपात्यन्ते वा। दान्तः, दमितः । शान्तः, शमितः । पूर्णः, पूरितः । दस्तः, दासितः । स्पष्टः, स्पाशितः । छन्नः, छादितः । ज्ञप्तः, ज्ञपितः । श्वसजपवमरुषत्वरसंघुषास्वनामः । ४ । ४ । ७५ । - एभ्यो धातुभ्यः क्तयोरादिरिड् वा भवति। श्वस्तः, श्वसितः। जप्तः, जपितः । जप्तवान् , जपितवान् । वान्तः, वमितः । वान्तवान् , वमितवान् । रुष्टः, रुषितः । रुष्टवान् , रुषितवान् । तूर्णः, त्वरितः । तूर्णवान् , त्वरितवान् । संघृष्टम् , संघुषितम् । संधुष्टवान् , संघुषितवान् । आस्वान्तः, आस्वनितः । अभ्यमितः, अभ्यान्तः । हुषेः केशलोमविस्मयप्रतीपाते । ४ । ४ । ७६ । हृषेः केशाद्यर्थेषु क्तयोरादिरिडू वा भवति । केशलोमकर्तका क्रिया केशलोमशब्देनोच्यते । हृष्टाः, हृषिता वा केशाः । हृष्टानि, हृषितानि वा लोमानि । हृष्टः, हृषितो वा जिनदत्तः ।
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy