SearchBrowseAboutContactDonate
Page Preview
Page 624
Loading...
Download File
Download File
Page Text
________________ ( ३१३ ) कष्धातोः परयोः कृच्छ्रे गहने चार्थे क्तयोरादिरिड न भवति । कष्टोऽग्निः । कष्टं वनम् । घुषेरविशब्दे । ४ । ४ । ६८ । अविशब्दार्थाद् षेः क्तयोरादिरिड् न भवति । घुष्टा रज्जुः । घुष्टवान् । बलि-स्थूले दृढः । ४ । ४ । ६९ । बलवति स्थूले चार्थे दृहे: हेर्वा क्तान्तस्य दृढ इति निपात्यते । दृढः बली स्थूलो वा । बलिस्थूल इति किम् ? हितम् हितम् । क्षुब्धविरिब्धस्वान्तध्वान्तलमम्लिष्टफाण्टबाट परिवृढं मन्थस्वरमनस्तमःसक्तास्पष्टानायासभृशप्रभौ । ४ । ४ । ७० । , एते क्तप्रत्ययान्ता मन्यादिष्वर्थेषु निपात्यन्ते । क्षुब्धः सरित्पतिः । विरिब्धः स्वरः । स्वान्तं मनः । ध्वान्तं तमः । लग्नमासक्तम् । म्लिष्टमस्पष्टम् । फाण्टमनायाससाध्यम् । बाढ भृशम् । परिवृढः प्रभुः । आदितः । ४ । ४ । ७१ । आदितो धातोः परयोः क्तयोरादिरिड् न भवति । मिन्नः ॥ - मिन्नवान् । नवा भावारम्भे । ४ । ४ । ७२ । आरम्भः प्रथमा किया। आदितो धातोः आरम्भे भावे चार्थे
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy