SearchBrowseAboutContactDonate
Page Preview
Page 623
Loading...
Download File
Download File
Page Text
________________ (३१२) डीच्धातोः श्वे ऐविद्यश्च धातुभ्यः क्तयोरादिरिड् न भवति । डीनः । डीनवान् । शूनः । शूनवान् । त्रस्तः । त्रस्तवान् । वेटोऽपतः । ४ । ४ । ६२। विकल्पेनेड् येभ्यस्तेभ्यः पल्लवजेभ्य एकस्वरेभ्यः क्तयोरादिरिड् न भवति । रद्धः । रद्धवान् । अपत इति किम् ? पतितः । सं-नि-वेरर्दः । ४ । ४ । ६३ । एभ्यः परादः क्तयोः आदिरिड् न भवति । समण्णः । समर्णवान् । न्यणः । न्यर्णवान् । व्यर्णः । व्यर्णवान् । अविदूरेऽभेः । ४ । ४ । ६४ । अभेः परादर्देरविदूरेऽर्थे क्तयोरादिरिड् न भवति । अभ्यर्णः । अभ्यर्णवान् । वर्तेवत्वं ग्रन्थे । ४ । ४ । ६५ । ण्यन्ताद् वृत्तेः क्तप्रत्यये ग्रन्थविषये वृत्तमिति निपात्यते । वृत्तो गुणश्छात्रेण। धृष-शसः प्रगल्भे । ४ । ४ । ६६ । - आभ्यां क्तयोरादिरिड् न भवति प्रगल्भेऽर्थे । धृष्टः । विशस्तः प्रगल्भ इत्यर्थः । कः कृच्छ्-गहने । ४ । ४ । ६७ ।
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy