________________
(३११) स्वरान्तादुपसर्गात् परस्य दासज्ञकस्य तादौ किति परे तो भवति, धाधातुं वर्जयित्वा । प्रत्तः । प्रत्तवान् ।
दत् । ४ । ४ । १० । धावर्जितस्य दासङ्घकस्य तादौ किति परे दत् भवति । दत्तः । दत्तवान् ।
दो-सो-मा-स्थ इः । ४।४।११। एषां तादौ किति परे इर्भवति । निर्दितः। सित्वा । मितिः । स्थितः । स्थितवान् ।
छा-शोर्वा । ४।४।१२। अनयोः तादौ किति परे इकारो वा भवति । अवच्छातः, अवच्छितः । निशितः, निशातः ।
हाको हिः क्वि । ४ । ४।१४। हाकः क्त्वाप्रत्यये परे हिः भवति । हित्वा । क्ल्वीति किम् ? हीनम् ।
- धागः।४।४।१५ । धागस्तादौ किति परे हिः भवति । हितः । विहितः । हित्वा ।
. उवर्णात् । ४।४ । ५८। .. अर्णान्तादेकस्वराद् धातोविहितस्य कित आदिरिड न भवति । युतः । लूनः ।
डीयश्व्यैदितः क्तयोः। ४।४।६१।