________________
( ३१० )
अनुपसर्गाः क्षीवोल्लाघ - कुश - परिकृश - फुल्लोत्फुल्ल-संफुल्लाः। ४ । २ । ८० ।
उपसर्गरहिता एते क्तान्ता निपात्यन्ते । क्षीवृ मदे क्षीवः । लाघृ सामर्थ्यं उल्लाघः । कृश तनुकरणे कृशः, परिकृशः । ञिफला विशरणे फुल्लः, उत्फुल्लः, संफुलः ।
भित्तं शकलम् । ४ । २ । ८१ ।
भिदेः परस्य क्तस्य शकलपर्याये नत्वाभावो निपात्यते ॥ भित्तं शकलमित्यर्थः ।
वित्तं धन - प्रतीतम् । ४ । २ । ८२ ।
विन्दतेः परस्य क्तस्य धनप्रतीतरूपे पर्याये नत्वाभावो निपात्यते । वित्तं धनमित्यर्थः । वित्तः प्रतीत इत्यर्थः । अन्यत्र
1
विन्नः ।
प्रादु दागस्त आरम्भे क्ते । ४ । ४ । ७ । पूर्वादारम्भार्थस्य दागः क्ते परे त्तो वा भवति । प्रत्तः,
प्रदत्तः ।
नि-वि-स्वन्ववात् । ४ । ४।८।
एभ्यः परस्य दागः क्ते परे तो वा भवति । नीत्तम् )
निदत्तम् । वीत्तम् विदत्तम् । सूत्तम् सुदत्तम् । अनूत्तम्
,
,
अनुदत्तम् । अवत्तम् अवदत्तम् ।
स्वरादुपसर्गाद् दस्ति कित्यधः १४ । ४ । ९ ।
1