SearchBrowseAboutContactDonate
Page Preview
Page 620
Loading...
Download File
Download File
Page Text
________________ .. (३०९) घ्यणोऽर्थो भावकर्मणी, ततोऽन्यस्मिन्नर्थे क्तयोः तः क्षेः परस्य नो भवति, तद्योगे क्षेः क्षी च । क्षीणः ।क्षीणवान् । अध्यार्थ इति किम् ? क्षितमस्य । वाऽऽक्रोश-दैन्ये । ४ । २ । ७५ । आक्रोशे दैन्ये च गम्ये क्षेः परयोः क्तयोः तो नो वा भवति, तद्योगे क्षी च । क्षीणायुः, क्षितायुर्जाल्म । क्षीणकः, क्षितकः तपस्वी। ऋ-ही-घ्रा-ध्रा-त्रोन्द-नुद-विन्तेर्वा । ४ । २ । ७६ । . एभ्यो धातुभ्यः परस्य क्तयोः तकारस्य वा नकारो भवति । ऋणम् , ऋतम् । हीणः, हीतः । घ्राणः, घ्रातः । ध्राणः,ध्रातः। त्राणः, त्रातः । समुन्नः, समुत्तः । नुन्नः, नुत्तः । विन्नः, वित्तः । ऋणवान् , ऋतवान् । हीणवान् , हीतवान् । घ्राणवान् , घातवान् । त्राणवान् , जातवान् । विन्नवान् , वित्तवान् । दुगोरू च । ४ । २।७७। . अनयोः क्तयोः तकारस्य नकारो भवति, तद्योगेऽनयोरुकारश्वान्तादेशः । दूनः । दूनवान् । गूनः । गूनवान् । -शुषि-पचो म-क-चम् । ४ । २ । ७८ । ... एभ्यः परयोः क्तयोः यथासंख्य मकवा भवन्ति । क्षामः । क्षामवान् । शुष्कः । शुष्कवान् । पक्वः । पक्ववान् । 'अवावे कर्तरि निर्वाणो निपात्यः' निर्वाणो मुनिः । वाते कर्तरि निर्वातः ।
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy