SearchBrowseAboutContactDonate
Page Preview
Page 619
Loading...
Download File
Download File
Page Text
________________ (३०८) सूयत्यायोदितः। ४ । २ । ७० । नवभ्यः सूयत्यादिभ्य ओदिद्भ्यश्च परयोः क्तयोः तो नो भवति । सूनः । सूनवान् । दूनः । दूनवान् । लग्नः । लग्नवान् । उद्विग्नः । उद्विग्नवान् । पीनः । पीनवान् । शूनः । शूनवान् । व्यञ्जनान्तस्थातोऽख्याध्यः । ४ । २ । ७१ । ख्याध्यावर्जस्य धातोर्यद् व्यञ्जनं तस्मात् परा याऽन्तस्था तस्याः परो य आकारः तस्मात् परयोः क्तयोः तो नो भवति । स्त्यानः । स्त्यानवान् । व्यञ्जनेति किम् ? यातः । अन्तस्था इति किम् ? स्नातः । आत इत्येव च्युतः । अख्याध्य इति किम् ? ख्यातः, ख्यातवान् ; ध्यातः, ध्यातवान् । आतः परस्येति किम् ? दरिद्रितः । . पूदिव्यश्च शाङ्तानपादाने । ४ । २ । ७२ । - एभ्यो यथासंख्यं नाशाद्यर्थेभ्यः परयोः क्तयोः तो नो भवतिी पूना यवाः । आयूनः । समनौ पक्षौ । नाशाङ्तानपादान इति किम् ? पूतम् , द्यूतम् , उदक्तम् । सेासे कर्मकर्तरि । ४ । २ । ७३ । सेः परयोः क्तयोः ग्रासे कर्मकर्तरि तो नो भवति । सिनो प्रासः स्वयमेव । कर्मकर्तरीति किम् ? सितो ग्रासो मैत्रेण । क्षेः क्षी चाध्यार्थे । ४।२ । ७४ ।
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy