________________
( ३०७) एभ्यः परौ सेटौ क्त-क्तवतू किद्धद् न भवतः । डयितः । डयितवान् । शयितः । शयितवान् । पवितः । पवितवान्। धर्षितः। धर्षितवान् । स्वेदितः । श्वेदितवान् । स्वेदितः । स्वेदितवान् । मेदितः । मेदितवान् । सेटावित्येव डीनः । डीनवान् ।
मृषः क्षान्तौ । ४ । ३ । २८ । क्षमार्थाद् मृष्धातोः सेटौ क्त-क्तवतू किद्वद् न भवतः । मर्षितः । मर्षितवान् ।
हादो हृद् क्तयोश्च । ४ । २।६७ । ह्लादः क्तयोः क्तौ च परेषु हृद् भवति । हृन्नः । हृन्नवान् । हृत्तिः ।
ऋल्वादेरेषां तो नोऽपः । ४।२।६८। । पृवर्जाद् ऋदन्ताद् ल्वादिभ्यश्च परेषां क्त-क्तवतु-क्तीनां तस्य नो भवति । तीर्णः । तीर्णवान् । तीणिः । लूनः । लूनवान् । लूनिः । धूनः । धूनवान् । धूनिः । अप्र इति किम् । पूर्तः । पूर्तवान् । पूर्तिः । - रदादमूर्च्छमदः क्तयोर्दस्य च । ४ । २ । ६९ ।
मूर्च्छिमदिवर्जिताद् रकारान्ताद् दकारान्ताच धातोः परयोः क्तक्तवत्वोः तो नो भवति, तत्संनियोगे धातोर्दस्यापि नो भवति । पूर्णः । पूर्णवान् । गूर्णः । गूर्णवान् । भिन्नः । भिन्नवान् । छिन्नः । छिन्नवान् । अमूर्च्छमद इति किम् ? मूर्तः, मूर्तवान् । मत्तः, मत्त-. वान्। रदादिति किम् ? चरितम् , मुदितम् अत्रेटा व्यवधानान्न भवति।