________________
' ( ३०६) पवित्रोऽर्हन् । 'ऋषावर्थे सञ्ज्ञायां च पूधातोः करणे इत्रो वक्तव्यः' । पुतात्यनेनेति पवित्रः ऋषिः, दर्भो वा ।
लू-धू-सू-खन-चर-सहार्तेः। ५।२। ८७।
एभ्यः सदर्थेभ्यः करणे इत्रो भवति । लवित्रम् । पवित्रम् । सविनम् । खनित्रम् । चरित्रम् । सहित्रम् । अरित्रम् । नीदांक्शसूयुयुजस्तुतुदसिसिचमिहपतपानहस्त्रट् । ५।२।८८
एभ्यः सदर्थेभ्यः करणे त्रड् भवति । नेत्रम् । दात्रम् । शस्त्रम् । योत्रम् । योक्त्रम् । स्तोत्रम् । तोत्रम् । सेत्रम् । सेक्त्रम् । मेढ़म् । पत्त्रम् । पात्रम् । नधी । 'पूधातोः हलास्ये क्रोडास्ये च करणे त्रट् वाच्यः' पोत्रं हलमुखं क्रोडमुखं वा। 'दंशः करणे दंष्ट्रा निपात्यते' 'धाधातोः कर्मणि धात्री निपात्यते' ।
___क्त-क्तवतू । ५। १ । १७४ ।
भूतार्थाद् धातोः क्त-क्तवतू भवतः । कृतः । भूतः । पक्वः । एधितः । भूतवान् । कृतवान् । उात शवर्हाद्भ्यः क्तौ भावारम्भे । ४।३ । २६ ।
उकारोपान्त्येभ्यः शवहेभ्योऽदादिभ्यश्च धातुभ्यः परौ भावारम्भे विहितौ क्त-क्तवतू सेटौ वा किद्वद् भवतः । कुचितम् , कोचितमनेन । प्रकुचितः, प्रकोचितः । प्रकुचितवान्, प्रकोचितवान् । रुदितम् , रोदितं तैः । प्ररुदितः, प्ररोदितः । प्ररुदितवान् , प्ररोदितवान् । न डीशीफूधृषिक्ष्विदिस्विदिमिदः । ४ । ३ । २७ ।