SearchBrowseAboutContactDonate
Page Preview
Page 616
Loading...
Download File
Download File
Page Text
________________ (३.५) तृषि-धृषि-स्वपो नजिङ् । ५।२।८। एभ्यः शीलादिसदर्थे नजिङ् भवति । तृष्णक् । धृष्णक् ।। स्वप्नक् । स्थेश-भास-पिस-कसो वरः । ५ ।२। ८१ । एभ्यः शीलादिसदर्थेभ्यो वरः भवति । स्थावरः । ईश्वरः ।। भास्वरः। पेस्वरः। कस्वरः । 'यङन्तयाधातोः यायावर इति निपात्यः। प्रात् सू-जोरिन्। ५ । २ । ७१। प्रात् पराभ्यामाभ्यां शीलादिसदाभ्यामिन् प्रत्ययो भवति। प्रसवी । प्रजवी। जीण्डक्षिविश्रिपरिभूवमाभ्यमाव्यथः । ५। २ । ७२ । एभ्यः शीलादिसदर्थे इन् भवति । जयी । अत्ययी। आदरी । क्षयी । विश्रयी । परिभवी । वमी । अभ्यमी । अव्यथी। दिद्युद्-ददृज्जगज्जुहू-बाक्-पाड्-धी-श्री-द्रस्र ज्वायतस्तूकटप्रू-परिवाड्-भ्राजादयः क्विपः । ५ ॥२॥४३॥ एते क्विबन्ता निपात्यन्ते । दिद्यत् । ददृत । जगत् । जुहूः । वाक् । शब्दप्राट् । धीः । श्रीः । शतद्रूः । स्तूः । जूः । आयतस्तूः । कटप्रूः । परिवाड् । विभ्राड् । भाः । शं-सं-स्वयं-विधाद् भुवो डुः । ५। २ । ८४ । एभ्यः परात् सदाद् भवतेः डुः प्रत्ययो भवतिः। शंभुः । संभुः । स्वयंभुः । विभुः। प्रभुः । 'पूधातोरित्रो वक्तव्यो दैवतेऽर्थे । 20
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy