________________
(३०३)
एभ्यः पराद् लषेः शीलांदिसदर्थे घिनण् भवति । विलाषी । अफ्लाषी । अभिलाषी । 'संप्राभ्यां पराद् वसाद् घिनण वाच्यः' संवासी, प्रवासी।
समत्यपाभिव्यमेश्वरः। ५ । २। ६२ । एभ्यः पराञ्चरतेः घिनण् भवति । संचारी । अतिचारी। अपचारी । अभिचारी । व्यभिचारी । ... समनुव्यवाद् रुधः । ५।२। ६३ ।
एभ्यः पराद् रुधेः शीलादिसदर्थे घिनण् भवति । संरोधी। अनुरोधी। विरोधी । अवरोधी । 'विपूर्वाद् दहेः, परिपूर्वाद् देविमुहि-दहि-क्षिा-रटिभ्यश्च घिनण वाच्यः' । विदाही, परिदेवी, परिमोही, परिदाही, परिक्षेपी, परिराटी ।
__वादेश्च णकः । ५ ।२।६७ । परिपूर्वात् क्षिप-रटिभ्यां वादेश्च णकः प्रत्ययो भवति। परिक्षेपकः । परिराटकः । परिवादकः । . निन्द-हिंस-क्लिश-खाद-विनाशिव्या-भाषासूयानेक
स्वरात् । ५ ।२।६८।। एभ्यः शीलादिसदर्थे णकप्रत्ययो भवति । निन्दकः । हिंसकः। क्लेशकः । खादकः । विनाशकः । व्याभाषकः। असूयकः चकासकः । 'उपसर्गात् परेभ्यो देव-देवि-क्रुशिभ्यः शीलादिसदर्थे गको वाच्यः' आदेवकः, परिदेवकः, आक्रोशकः ।