SearchBrowseAboutContactDonate
Page Preview
Page 613
Loading...
Download File
Download File
Page Text
________________ (३०२) प्रत्ययो न भवति । भावयिता । क्ष्मायिता । सूदिता । दीपिता । दीक्षिता। . यजि-जपि-दंशि-वदादूकः । ५ । २ । ४७ । एभ्यो यङन्तेभ्यः शीलादिसदर्थेभ्यो उकः भवति । यायजूकः । ब्रजपूकः । ददशूकः । वावदूकः । 'जागृधातोरपि उको वक्तव्यः' जागर्ति तच्छीलो जागरूकः । . शमष्टकाद् घिनण् । ५ । २ ।.४९ । ... एभ्यः शीलादिसदर्थेभ्यो घिनण् भवति । शमी । दमी। तमी। श्रमी । भ्रमी । क्षमी । मादी । लमी । युज नमजत्यजरअद्विषदुपद्रुहदुहाभ्याहनः । ५ । २ । ५० । शीलादिसदर्थेभ्य एभ्यो घिनण् प्रत्ययो भवति । योगी । मोगी । भागी। त्यागी । रागी । द्वेषी । दोषी । द्रोही । दोही । अभ्याघाती। आङ्पूर्वाभ्यां क्रीड-भूषाभ्यामपि वक्तव्यः' आक्रीडी, आमोषी । 'प्रपूर्वाभ्यां मथ-लपाम्यां घिनण वाच्यः' प्रमाथी, प्रलापी। 'आङ्पूर्वाभ्यां प्रपूर्वाभ्यां च यम-यसाभ्यां घिनण् कर्तव्यः' प्रयामी, आयामी । प्रयासी, आयासी । । वेविचकत्थसम्भकषकसलसहनः ।५।२ । ५९।। विपूर्वादेभ्यो घिनण् शीलादिसदर्थे भवति । विवेकी विकत्थी । विस्रम्भी । विकाषी । विकासी । विलासी । विघाती .... व्यपाभेर्लषः । ५।२।६०।
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy