SearchBrowseAboutContactDonate
Page Preview
Page 612
Loading...
Download File
Download File
Page Text
________________ ( ३०१' ) वृकमगमहन वृषभूस्थ उकण् । ५ । २ । ४० शीलादिसदर्थेभ्य एभ्य उकण् भवति । शारुकः । कामुकः गामुकः । घातुकः । वर्षुकः । भावुकः । स्थायुकः । कष-पत--पद: ।५।२ । ४१ । एभ्यः शीलादिसदर्थे उकण् भवति । अभिलाषुकः । पातुकः पातुकः । भूषाक्रोधार्यजुसृगृधिज्वलशुचश्चानः । १ । २ । ४२ ॥ भूषार्थेभ्यः क्रोधार्थेभ्यो ज्वादिभ्यो लषादिभ्यश्च शीलादिसदुर्थेभ्यः अनः भवति । भूषणः । क्रोधनः । कोपनः । जवनः ॥ सरणः । गर्धनः । ज्वलनः । शोचनः । लषणः । पतनः । पदमः । चलशब्दार्थादकर्मकात् । ९ । २ । ४३ । चलनार्यादार्थादकर्मकात् शीलादिसदर्थे अनो भवति Կ बसनः । स्वगः । अकर्मकादिति क्रिम् 3 पठिता विद्याम् । इङितो व्यञ्जनाद्यन्तात् । ९ । २ । ४४ । व्यञ्जनमांदि भन्तं च यस्य तस्मादिदितो वित्तश्च शीलादिसदर्थे अनो भवति । स्पर्धते तच्छीलः स्पर्धनः । वर्तनः । 'यङन्ताभ्यां द्रमुकमाभ्यामनो वाच्यः' । दंद्रमणः । चंक्रमणः । न यि-सूद-दीप- दीक्षः । ५ । २०५१ णिङन्ताद् यन्तात् सुदादिभ्यश्च शीलादिसदर्थेभ्य अनः
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy