SearchBrowseAboutContactDonate
Page Preview
Page 611
Loading...
Download File
Download File
Page Text
________________ ( १०० ) सनभिक्षाऽऽशंसेरुः । ५।२।१३। शीलादिसदर्थेभ्यः सन्नन्त भिक्षाऽऽशंसिभ्य उः प्रत्ययो भवति । लिप्सुः । चिकीर्षुः । मिक्षुः । आशंसुः । विन्द्विच्छ्र । ५ । २ । ३४ । शीलादिसदर्याभ्यामाभ्यां वेत्तीच्छिभ्यां यथासंख्यं नुषान्स्यछान्तादेशौ च निपात्येते । वेत्ति तच्छीलः विन्दुः । इच्छुः । शृ-वन्देरारुः । ५ । २ । ३५ । शीलादिपदर्थाभ्यामाभ्यामारुः भवति । शराः । विंशरारुः । सन्दा । दावे - सि-शद - सदो रुः । १ । २ । ३६ । शीलादिसदर्थेभ्य एभ्यो रुः प्रत्ययो भवति । दारुः । धारुः । जोरुः । शदुः । सद्रुः । श्री श्रद्धानिद्रातन्द्रादयिपतिगृहिस्पृहेरालुः । ५ । २ । ३७ । शीलादिसदर्थेभ्य एभ्य आलुः प्रत्ययो भवति । शयालुः । श्रद्धालुः । निद्रालुः । तन्द्रालुः । दयालुः । पतयालुः । गृहयालुः । स्पृहयालुः । ङौ सासहिवावहिचाचलिपापति । १ । २ । ३८ । एते यङन्ता डिप्रत्ययान्ता निपात्यन्ते । सासहिः । वावहिः । चाचलिः । पापतिः । सत्रि- चक्रि- दधि - जज्ञि - नेमि । ९ । २ । ३९ । एते यङन्ता डिप्रत्ययान्ता निपात्यन्ते । सत्रिः । चक्रिः । दधिः । जज्ञिः । नेमिः ।
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy