________________
तृन् शील-धर्म-साधुषु । ५ । २ । २७ । वर्तमानकालार्थाद् धातोः शीलाद्यर्थेषु तृन् प्रत्ययो भवति । करोति तच्छीलः कर्ता कटम् । मुण्डयितारः श्राविष्ठायनाः । गन्ता खेलः।
... भ्राज्यलंगनिराकृगभूसहिरुचिकृत्तिद्धिचरिप्रजनापत्रप . : इष्णुः । ५ । २ । २८।
:वर्तमानकालेभ्य एभ्यः शीलाद्यर्थेषु इष्णुः प्रत्ययो भवति । भ्रानिष्णुः । अलंकरिष्णुः । निराकरिष्णुः । भविष्णुः । सहिष्णुः। रोचिष्णुः । वर्तिष्णुः । वर्धिष्णुः । चरिष्णुः । प्रननिष्णुन अपत्रपिष्णुः ।।
उदः पचि-पति-पदि-मदेः। ५ ।२।२९ ।
शीलादिसदर्थेभ्य एभ्य इष्णुः प्रत्ययो भवति । उत्पचिष्णुः । उत्पतिष्णुः । उत्पदिष्णुः । उन्मदिष्णुः । ।
भ-जेः ष्णुक् । ५ । २.। ३०।आभ्यां शीलादिसदाभ्यां ष्णुक भवति । भूष्णुः । निष्णुः । स्थाग्लाम्लापचिपरिमृजिक्षेः स्नुः । ५।२।३१ । एभ्यः सदर्थेभ्यः शीलादौ स्नुः भवति । स्थास्तुः । स्लास्नुः । म्लास्नुः । पक्ष्णुः । परिमाणुः । क्षेष्णुः ।
त्रसि-गृधि-धृषि-क्षिपः क्नुः। ५।२। ३२ ।।
शीलादिसदर्थेभ्य एभ्यःक्नुः भवति । त्रस्नुः । गृध्नुः । धृष्णुः। क्षिण्णुः ।