SearchBrowseAboutContactDonate
Page Preview
Page 607
Loading...
Download File
Download File
Page Text
________________ - ( २९) दृशः क्वनिप् । ५।१।१६६ ।। व्याप्यात् पराद् भूतार्थाद् दृशेः क्वनिव् भवति । बहुदृश्वा । सह-राजभ्यां कम्-युधेः । ५।१ । १६७ । आभ्यां कर्मभ्यां पराभ्यां भूतार्याभ्यां कृग्युधिभ्यां क्वनिम् भवति । सहकृत्वा । सहयुध्वा । रानकृत्वा । रामयुष्या। ___ अनोजनेंडः । ५ । १।१६८ ॥ कर्मणः परादनुपूर्वाजनेः भूतार्थाद् डा प्रत्ययो भवति । प्रमनुजा सप्तम्याः ।५।१। १६९। __सप्तम्यन्तात् पराद् भूतार्थाजनेः डः प्रत्ययो भवति । मन्दुरायां जातः मन्दुरजः । ___ अजातेः पश्वम्याः । ५। १ । १७० । - अजात्यर्थात् पञ्चम्यन्तात् पराद् भूतार्थाद् जनेर्डः प्रत्ययो भवति । बुद्धेर्माता बुद्धिजा कल्पना। आत्यर्थात् परात्तु गजाजातः इत्येव, न डप्रत्ययः । क्वचित् । ५ । १ । १७१। उक्तादन्यत्रापि क्वचिद् डः प्रत्ययो भवति । किञ्जः । अनुजः । अजः । स्त्रीजः । ब्रह्मन्यः । वराहः । सुयजो वनिप् । ५ । १ । १७२ । आभ्यां भूतार्थाभ्यां वनिप् प्रत्ययो भवति । सुत्वानौ । यज्वा ।
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy