SearchBrowseAboutContactDonate
Page Preview
Page 606
Loading...
Download File
Download File
Page Text
________________ ( २९५ ) करणाद् यजो भूते । ५। १ । १५८।। करणार्थाद् नाम्नः पराद् भूतार्थाद् यजधातोः णिन् भवति । अग्निष्टोमेन अयाक्षीत् अग्निष्टोमयाजी। ... निन्द्ये व्याप्यादिन विक्रियः । ५ । १ । १.५९ । व्याप्याद् नाम्नः पराद् भूतार्थाद् विपूर्वात् क्रियः निन्छे कर्तरि इन् प्रत्ययो भवति । सोमविक्रयी । 'व्याप्यात् पराद् हन्तेः भूतार्थाद् णिन् वाच्यः, निन्द्ये कर्तरि सति' पितृघाती । मातृघाती। ब्रह्म-भ्रूण-वृत्रात क्विप् । ५। १ । १६१ । एभ्यः कर्मभ्यः पराद् भूतार्थाद् हन्तेः' क्विब् भवति । ब्रह्माणं हतवान् ब्रह्महा । भ्रूणहा । वृत्रहा। कृगः सुपुण्यपापकर्ममन्त्रपदात् । ५ । १ । १६२ । ... एभ्यः पराद् भूतार्थाद् कृगः क्विब् भवति । सुकृत् । पुण्यकृत् । पापकृत् । कर्मकृत् । मन्त्रकृत् । पदकृत् । सोमात् सुगः। ५ । १ । १६३ ।। सोमात् कर्मणः पराद् भूतार्थात् सुगः क्विब् भवति । सोमसुत् । 'अग्नेः कर्मणः पराद् भूतार्थात् चिनोतेः क्विक वाच्यः।' अग्निं चितवान् अग्निचित् । कर्मण्यग्न्यर्थे । ५।१।१६५ । ___ कर्मणः पराद् भूतार्थात् चिनोतेरग्निरूपे कर्मणि क्विन् भवति । श्येनचित् ।
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy