________________
( २९४ )
त्यदाद्यन्यसमानादुपमानाद् व्याप्ये दृशष्टक - सकौ च । ५ । १ । १५२ । उपमानरूपव्याप्येभ्य एभ्यः पराद् दृशेः व्याप्येऽर्थे एव टक्सौ क्वि च भवन्ति । स्य इव दृश्यते त्यादृशः, त्यादृक्षः, त्यादृक् । तादृशः तादृक्षः, तादृक् । अन्यादृशः, अन्यादृक्षः, अन्यादृक्। अमूदृशः, अमूदृक्षः, अमूदृक् । सदृशः, सदृक्षः, सहक
कर्तुर्णिन् । ५ । १ । १५३ |
कर्तुरुपमानात् पराद् धातोर्णिन् प्रत्ययो भवति । उष्ट्र इव कोशति उष्ट्रकोशी ।
अजातेः शीले । १ । १ । १५४ ।
अजात्यर्थाद नाम्नः पराद् शीलेऽर्थे णिन् भवति । उष्णं मुङ्क्ते तच्छील उष्णभोजी ।
साधौ । १ । १ । १५१ ।
नाम्नः परात् साध्वर्थाद् धातोः णिन् भवति । साधुकारी ॥
साधुपाठी ।
ब्रह्मणो वदः । १ । १ । १५६ । ब्रह्मणः पराद् वदेर्णिन् भवति । ब्रह्मवादी | व्रताभीक्ष्णये । ५ । १ । १५७ ।
त्रताभीक्ष्ण्ययोः गम्ययोः नाम्नः पराद् धातोर्णिन् प्रत्ययो भवति । स्थण्डिले वर्तते स्थण्डिलवतीं । क्षीरं पुनः पुनः पिबन्ति क्षीरपायिण उशीनराः ।