SearchBrowseAboutContactDonate
Page Preview
Page 604
Loading...
Download File
Download File
Page Text
________________ ( १९३ ) दुहेर्बुधः । ५ । १ । १४५ । नाम्नः पराद् दुहेः डुघः प्रत्ययो भवति । कामान दोग्वि कामदुधा गौः । भजो विण् । ५ । १ । १४६ । I नाम्नः पराद् भजतेर्विणु प्रत्ययो भवति । अर्ध भजते अर्धभाक् । मनवन्क्वनिविच क्वचित् । ५ । १ । १४७ ॥ नाम्नः पराद् धातोरेते प्रत्यया भवन्ति । इन्द्रशर्मा । देवशर्मा | जिनशर्मा । विजावा । घ्वावा । अवावा । सुधीवा । शुभ्याः । क्विप् । ५ । १ । १४८ । नाम्नः पराद् धातोः क्विब् भवति । कार्य करोति कार्यकृत् । हरतीति हृत् । स्पृशोऽनुदकात् । ५ । १ । १४९ ॥ उदकवर्जाद् नाम्नः परात् स्पृशते: क्विव् भवति । घृतस्पृ अनुदकादिति किम् ? उदकस्पर्शः । अदोऽनन्नात् । ५ । १ । १५० । अन्नवर्जाद् नाम्नः पराददेः क्विं भवति । आमात् । अनन्नादिति किम् ? अन्नादः । क्रव्यात्- क्रव्यादावामपक्वादौ । ५ । १ । १५१ । क्रव्यपूर्वादत्तेरेतौ यथासंख्यमामादपक्वादयोः साधू भक्तः [ क्रव्यात् आममांसभक्षः । क्रव्यादः पक्वमांसभक्षः ।
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy