________________
( २९२ )
भिक्षा - सेना -दायात् । ५ । १ । १३९ । एभ्यः पराचरतेष्टः प्रत्ययो भवति । भिक्षाचरी । सेनाचरः ।
आदायचरः ।
पुरोऽग्रतोऽग्रे सर्तेः । ५ । १ । १४० ।
एभ्य आधारेभ्यः परात् सरतेष्टः प्रत्ययो भवति । पुर:सरः । अग्रतः सरः । अग्रेसरः ।
पूर्वात् कर्तुः । ५ । १ । १४१ ॥
1
कर्त्रर्थे वर्तमानात् पूर्वात् परस्य सरतेष्टो भवति । पूर्वः सन् सरति पूर्वसरः ।
स्था-पा-स्ना - त्रः कः । ५ । १ । १४२ । नाम्नः परेभ्य एभ्यः कः प्रत्ययो भवति । समस्यः । कच्छपः । नदीष्णः । धर्मत्रं छत्रम् । शोकापनुद- तुन्दपरिमृज-स्तम्बेरम-कर्णेजपं प्रिंयालसहस्तिचके । ५ । १ । १४१ ।
एते प्रियाद्यर्थेषु यथासंख्यं कप्रत्ययान्ता निपात्यन्ते । शोकमपनुदति शोकापनुदः प्रियजनः । तुन्दं परिमार्ष्टि तुन्दपरिमृजोऽलसः । स्तम्बे रमते स्तम्बेरमो हस्ती । कर्णे जपति कर्णेजपोऽतिखलः ।
मूलविभुजादयः । ५ । १ । १४४ ।
एते कप्रत्ययान्ता निपात्यन्ते । मूलविमुजो रथः । कुमुदं
।
कैरवम् ।