SearchBrowseAboutContactDonate
Page Preview
Page 595
Loading...
Download File
Download File
Page Text
________________ ( २८४) जायापतेचितवति । ५ । १।८।। ... आभ्यां कर्मभ्यां पराद् हन्तेः चिह्नवति कर्तरि टक् प्रत्ययो मवति । जायाघ्नः । पतिघ्नी कन्या। ब्रह्मादिभ्यः । ५ । १ ॥ ८५ । एभ्यः कर्मभ्यः पराद् हन्तेः टक् प्रत्ययो भवति । ब्रह्मघ्नः । गोघ्नः पापी। हस्तिबाहुकपाटाच्छक्तौ । ५ । १। ८६ । एभ्यः कर्मभ्यः पराद् हन्धातोः शक्तौ गम्यमानायां कर्तरि टक् प्रत्ययो भवति । हस्तिघ्नः । बाहुघ्नः । कपाटनः । 'राजघ इति निपात्यः' राजानं हन्ति रानघः । नगरादगजे । ५। १ । ८७ । अस्मात् कर्मणः पराद् हन्तेरगजे कर्तरि टक् प्रत्ययो भवति। नगरघ्नो व्याघ्रः । अगज इति किम् ? नगरघातो हस्ती । ' शिलिपनि पाणिघताडौ निपात्यौ'। कुक्ष्यात्मोदराद् भृगः खिः । ५ । १ । ९० । एभ्यः कर्मभ्यो भृगः खिः भवति । कुक्षिम्भरिः । आत्मम्भरिः । उदरम्भरिः। ___ अर्होऽच् । ५ । १ । ९१ । . कर्मणः परादहतेरच् प्रत्ययो भवति । पूजामहतीति पूनारे वीतरागमूर्तिः । पूजार्होऽर्हन् ।
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy