SearchBrowseAboutContactDonate
Page Preview
Page 594
Loading...
Download File
Download File
Page Text
________________ (२८३) समः ख्यः।५।१। ७७ । · कर्मणः परात् सम्पूर्वात् ख्यातेः डो भवति । गां संख्याति गोसंख्यः। दश्चाङः । ५ । १ । ७८ । कर्मणः परादाङ्पूर्वाद् दागः ख्यातेश्च डो भवति । दायमाददाति दायादः । स्त्रयाख्यः । प्राज्ज्ञश्च । ५ । १। ७९ । कर्मणः परात् प्रपूर्वाज ज्ञो दश्च डप्रत्ययो भवति । पथिप्रज्ञः । प्रपाप्रदः। आशिषि हनः । ५।१।८० । कर्मणः पराद् हन्तेः आशिषि गम्यायां कर्तरि डो भवति । शत्रु वध्यात् शत्रुहः । क्लेशादिभ्योऽपात् । ५ । १ । ८१ । ___ क्लेशादिकर्मणः पराद् हन्तेः कर्तरि डः प्रत्ययो भवति । क्लेशमपहन्ति क्लेशापहो मुनिः । तमांस्यपहन्ति तमोऽपहः सूर्यः । कुमारशीर्षाण्णिन् । ५ । १ । ८२ । - आभ्यां कर्मभ्यां पराद् हन्तेर्णिन् प्रत्ययो भवति । कुमार, घाती । शीर्षघाती। अचित्ते टक् । ६।१।८३ । ...' कर्मणः पराद् हन्तेरचित्तवति कर्तरि टक् भवति । वातघ्नं तैलम् । अचित्त इति किम् ? पापघातो यतिः ।
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy